Sign In

Durga Chandrakala Stuti | दुर्गा चंद्रकला स्तुति | Free PDF Download

Durga Chandrakala Stuti | दुर्गा चंद्रकला स्तुति | Free PDF Download

Reading Time: < 1 minute

वेधोहरीश्वरस्तुत्यां विहर्त्रीं विन्ध्यभूधरे
हरप्राणेश्वरीं वन्दे हन्त्रीं विबुधविद्विषाम् ।। 1 ।।

अभ्यर्थनेन सरसीरुहसंभवस्य
त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् ।
विश्वेश्वरी विपदपागमने पुरस्ता-
न्माता ममास्तु मधुकैटभयोर्निहन्त्री ।।2।।

प्राङ्निर्जरेषु निहितैर्निजशक्तिलेशै-
रेकीभवद्भिरुदिताखिललोकगुप्त्यै ।
संपन्नशस्त्रनिकरा च तदायुधस्थै-
र्माता ममास्तु महिषान्तकरी पुरस्तात् ।।3।।

प्रालेयशैलतनयातनुकान्तिसम्प-
त्कोशोदिता कुवलयच्छविचारुदेहा ।
नारायणी नमदभीप्सितकल्पवल्ली
सुप्रीतिमावहतु शुम्भनिशुम्भहन्त्री ।।4।।

विश्वेश्वरीति महिषान्तकरीति यस्याः
नारायणीत्यपिच नामभिरङ्कितानि ।
सूक्तानि पङ्कजभुवाच सुरर्षिभिश्च
दृष्टानि पावकमुखैश्च शिवां भजे ताम् ।।5।।

उत्पत्तिदैत्यहननस्तवनात्मकानि
संरक्षकाण्यखिलभूतहिताय यस्याः ।
सूक्तान्यशेषनिगमान्तविदः पठन्ति
तां विश्वमातरमजस्रमभिष्टवीमि ।।6।।

ये वैप्रचित्तपुनरुत्थितशुम्भमुख्यै
र्दुर्भिक्षघोरसमयेन च कारितासु ।
आविष्कृतास्रिजगदार्तिषु रूपभेदा-
स्तैरम्बिका समभिरक्षतु मां विपद्भ्यः ।।7।।

सूक्तं यदीयमरविन्दभवादिदृष्ट-
मावर्त्य देव्यनुपदं सुरथस्समाधिः ।
द्वावप्यवापतुरभीष्टमनन्यलभ्यं
तामादिदेवतरुणीं प्रणमामि देवीम् ।।8।।

माहिष्मतीतनुभवं च रुरुं च हन्तु-
माविष्कृतैर्निजरसादवतारभेदैः ।
अष्टादशाहतनवाहतकोटिसंख्यै-
रम्बा सदा समभिरक्षतु मां विपद्भ्यः ।।9।।

एतच्चरित्रमखिलं लिखितं हि यस्या-
स्संपूजितं सदन एव निवेशितं वा ।
दुर्गं च तारयति दुस्तरमप्यशेषं
श्रेयः प्रयच्छति च सर्वमुमां भजे ताम् ।।20।।

यत्पूजनस्तुतिनमस्कृतिभिर्भवन्ति
प्रीताः पितामह रमेश हरास्त्रयोsपि ।
तेषामपि स्वकगुणैर्ददतीं वपूंषि
तामीश्वरस्य तरुणीं शरणं प्रपद्ये ।।21।।

कान्तारमध्यदृढलग्नतयावसन्ना
मग्नाश्च वारिधिजले रिपुभिश्च रुद्धाः ।
यस्याः प्रपद्य चरणौ विपदस्तरन्ति
सा मे सदास्तु हृदि सर्वजगत्सवित्री ।।22 ।।

वन्धे वधे महति मृत्युभये प्रसक्ते
वित्तक्षये च विविधे च महोपतापे ।
यत्पादपूजनमिह प्रतिकारमाहु
स्सा मे समस्तजननी शरणं भवानी ।।23।।

बाणासुरप्रहितपन्नगबन्धमोक्ष-
स्तद्बाहुदर्पदळनादुषया च योगः ।
प्राद्युम्निना द्रुतमलभ्यत यत्प्रसादा-
त्सा मे शिवा सकलमप्यशुभं क्षिणोतु ।।24।।

पापः पुलस्त्यतनयः पुनरुत्थितो मा-
मद्यापि हर्तुमयमागत इत्युदीतम् ।
यत्सेवनेन भयमिन्दिरयाsवधूतं
तामादिदेवतरुणीं शरणं गतोsस्मि ।।25।।

यद्द्ध्यानजं सुखमवाप्यमनन्तपुण्यै-
स्साक्षात्तमच्युतपरिग्रहमाश्ववापुः ।
गोपाङ्गनाः किल यदर्चनपुण्यमात्रा
त्सा मे सदा भगवती भवतु प्रसन्ना ।।26।।

रात्रिं प्रपद्य इति मन्त्रविदः प्रपन्ना-
नुद्बोध्य मृत्यवधिमन्यफलैः प्रलोभ्य ।
बुध्वाच तद्विमुखतां प्रतनं नयन्ती-
माकशमादिजननीं जगतां भजे ताम् ।।27।।

देशकालेषु दुष्टेषु दुर्गाचन्द्रकलास्तुतिः ।
सन्ध्ययोरनुसन्धेया सर्वापद्विनिवृत्तये ।।28।।