Sign In

श्री अंगारकस्तोत्रम् | Angaraka Stotram | Free PDF Download

श्री अंगारकस्तोत्रम् | Angaraka Stotram | Free PDF Download

अंगारक: शक्तिधरो लोहिताङ्गो धरासुतः |

कुमारो मङ्गलो भौमो महाकायो धनप्रदः ||१||

ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः |

विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ||२||

सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः |

लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ||३||

रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः |

नामान्येतानि भौमस्य यः पठेत्सततं नरः ||४||

ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति |

धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ||५||

वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः |

योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः ||६||

सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ||७||

||इति श्रीस्कन्दपुराणे अङ्गारकस्तोत्रं संपूर्णम् ||

Download PDF