Sign In

श्री आञ्जनेय स्तोत्रम् | Anjaneya Stotram | Free PDF Download

श्री आञ्जनेय स्तोत्रम् | Anjaneya Stotram | Free PDF Download

ध्यानम्

उद्यदादित्यसंङ्काशं उदार भुज विक्रमम् ।

कन्दर्पकोटि लावण्यं सर्वविद्या विशारदम् ॥

श्रीराम हृदयानन्दं भक्तकल्प महीरुहम् ।

अभयं वरदं दोर्भ्यांकलये मारुतात्मजम् ॥

अञ्जनानन्दनं वीरं जानकीं शोकनाशनम् ।

कपीशं अक्षहन्तारं वन्दे लंका भयंकरम् ॥

आञ्जनेयं अतिपाटलाननं कञनाद्रि कमनीय विग्रहम् ।

पारिजात तरुमूल वासिनं भावयामि पवमान नन्दनम् ॥

उल्लंघ्यसिन्धोः सलिलं सलीलंयस्शोकवह्निं जनकात्मजाय ।

आदाय तेनैवददाहलंकां नमामि तं प्रान्जलिराञ्जनेयं ॥

अतुलित बलधामं स्वर्ण शैलाभदेहम्

दनुजवन कृशानं ज्ञानिनां अग्रगण्यम् ।

सकल गुणनिधानं वानराणांधीशम्

रघुपति प्रिय भक्तं वात जातं नमामि ॥

गोश्पदीकृत वारशींशकीकृत राक्षसाम् ।

रामायण महामाला रत्नं वन्दे अनिलात्मजम् ॥

यत्र-यत्र रघुनाथ कीर्तनं तत्र-तत्र कृतमस्तकाञ्जलिम् ।

भाश्पवारि परिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥

अमिषीकृत मार्तंदं गोश्पदीकृत सागरम् ।

तृणीकृत दशग्रीवं आञ्जनेयं नमाम्यहम् ॥

मनोजवं मारुततुल्य वेगं

जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं

श्रीरामदूतं शरणं प्रपद्ये ॥

आञ्जनेय गायत्रि

ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि ।

तन्नो हनुमत् प्रचोदयात् ॥

आञ्जनेय त्रिकाल वंदनम्

प्रातः स्मरामि हनुमन्नन्तवीर्यं

श्रीरामचन्द्र चरणाम्बुजचंचरीकम् ।

लंकापुरीदहन नन्दितदेववृन्दं

सर्वार्थसिद्धिसदनं प्रथितप्रभावम् ॥

माध्यम् नमामि वृजिनार्णव तारणैका

धारंशरण्य मुदितानुपम प्रभावम् ।

सीताधि सिंधु परिशोषण कर्म दक्षं

वंदारु कल्पतरुं अव्ययं आञ्ज्नेयम् ॥

सायं भजामि शरणोपस्मृताखिलार्ति

पुञ्जप्रणाशन विधौ प्रथित प्रतापम् ।

अक्षांतकं सकल राक्षस वंशधूमकेतुं

प्रमोदित विदेह सुतं दयालुम् ॥

॥ इति श्री आञ्जनेयस्तोत्रम् ॥

Download PDF