Sign In

Mangal Kavacham | मंगल कवचम् | Free PDF Download

Mangal Kavacham | मंगल कवचम् | Free PDF Download

Reading Time: < 1 minute

II मंगल कवचम् II

अथ मंगल कवचम्

अस्य श्री मंगलकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I
अनुष्टुप् छन्दः I अङ्गारको देवता I
भौम पीडापरिहारार्थं जपे विनियोगः I
रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् I
धरासुतः शक्तिधरश्च शूली सदा ममस्याद्वरदः प्रशांतः II १ II
अंगारकः शिरो रक्षेन्मुखं वै धरणीसुतः I
श्रवौ रक्तांबरः पातु नेत्रे मे रक्तलोचनः II २ II
नासां शक्तिधरः पातु मुखं मे रक्तलोचनः I
भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा II ३ II
वक्षः पातु वरांगश्च हृदयं पातु लोहितः I
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः II ४ II
जानुजंघे कुजः पातु पादौ भक्तप्रियः सदा I
सर्वण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः II ५ II
या इदं कवचं दिव्यं सर्वशत्रु निवारणम् I
भूतप्रेतपिशाचानां नाशनं सर्व सिद्धिदम् II ६ II
सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम् I
भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम् II
रोगबंधविमोक्षं च सत्यमेतन्न संशयः II ७ II
II इति श्रीमार्कण्डेयपुराणे मंगलकवचं संपूर्णं II