Sign In

श्री जनमंगल स्तोत्र | Shri Janmangal Stotra | Free PDF Download

श्री जनमंगल स्तोत्र | Shri Janmangal Stotra | Free PDF Download

नमोनमः श्रीहरये बुद्धिदाय दयावते ।

भक्तिधर्मांगजाताय भक्तकल्पद्रुमाय च ॥१॥

सुगन्धपुष्पहाराद्यैर्विविधैरुपहारकैः ।

सम्पूजिताय भक्तौघैः सिताम्बरधराय च ॥२॥

नाम्नामष्टोत्तरशतं चतुर्वर्गमभीप्सताम् ।

सद्यः फलप्रदं नॄणां तस्य वक्ष्यामि सत्पतेः ॥३॥

अस्य श्रीजनमंगलाख्यस्य श्रीहर्यष्टोत्तरशत-

नामस्तोत्रमन्त्रस्य शतानन्द ऋषिः ।

अनुष्टुप् छन्दः ।

धर्मनन्दनः श्रीहरिर्देवता । धार्मिक इति

बीजम् । बृहद्‌व्रतधर इति शक्तिः । भक्तिनन्दन

इति कीलकम् । चतुर्वर्गसिद्ध्यर्थे जपे विनियोगः ।

अथ ध्यानम् ।

वर्णिवेषरमणीयदर्शनं मन्दहासरुचिराननाम्बुजम् ।

पूजितं सुरनरोत्तमैर्मुदा धर्मनन्दनमहं विचिन्तये ॥४॥

श्रीकृष्णः श्रीवासुदेवो नरनारायणः प्रभुः ।

भक्तिधर्मात्मजोजन्मा कृष्णो नारायणो हरिः ॥५॥

हरिकृष्णो घनश्यामो धार्मिको भक्तिनन्दनः ।

बृहद्‌व्रतधरः शुद्धो राधाकृष्णेष्टदैवतः ॥६॥

मरुत्सुतप्रियः कालीभैरवाद्यतिभीषणः ।

जितेन्द्रियो जिताहारस्तीव्रवैराग्य आस्तिकः ॥७॥

योगेश्वरो योगकलाप्रवृत्तिरतिधैर्यवान् ।

ज्ञानी परमहंसश्च तीर्थकृत्तैर्थिकार्चितः ॥८॥

क्षमानिधिः सदोन्निद्रो ध्याननिष्ठस्तपः प्रियः ।

सिद्धेश्वरः स्वतन्त्रश्च ब्रह्मविद्याप्रवर्तकः ॥९॥

पाषण्डोछेदनपटुः स्वस्वरूपाचलस्थितिः ।

प्रशान्तमूर्तिर्निर्दोषोऽसुरगुर्वादिमोहनः ॥१०॥

अतिकारुण्यनयन उद्धवाध्वप्रवर्तकः ।

महाव्रतः साधुशीलः साधुविप्रप्रपूजकः ॥११॥

अहिंसयज्ञप्रस्तोता साकारब्रह्मवर्णनः ।

स्वामिनारायणः स्वामी कालदोषनिवारकः ॥१२॥

सच्छास्त्रव्यसनः सद्यःसमाधिस्थितिकारकः ।

कृष्णार्चास्थापनकरः कौलद्विट् कलितारकः ॥१३॥

प्रकाशरूपो निर्दम्भः सर्वजीवहितावहः ।

भक्तिसम्पोषको वाग्मी चतुर्वर्गफलप्रदः ॥१४॥

निर्मत्सरो भक्तवर्मा बुद्धिदाताऽतिपावनः ।

अबुद्धिहृद्‌ब्रह्मधामदर्शकश्चापराजितः ॥१५॥

आसमुद्रान्त सत्कीर्तिः श्रितसंसृतिमोचनः ।

उदारः सहजानन्दः साध्वीधर्मप्रवर्तकः ॥१६॥

कन्दर्पदर्पदलनो वैष्णवक्रतुकारकः ।

पञ्चायतनसम्मानो नैष्ठिकव्रतपोषकः ॥१७॥

प्रगल्भो निःस्पृहः सत्यप्रतिज्ञो भक्तवत्सलः ।

अरोषणो दीर्घदर्शी षडूर्मिविजयक्षमः ॥१८॥

निरहंकृतिरद्रोह ऋजुः सर्वोपकारकः ।

नियामकश्चोपशमस्थितिर्विनयवान् गुरुः ॥१९॥

अजातवैरी निर्लोभो महापुरुष आत्मदः ।

अखण्डितार्षमर्यादो व्याससिद्धान्तबोधकः ॥२०॥

मनोनिग्रहयुक्तिज्ञो यमदूतविमोचकः ।

पूर्णकामः सत्यवादी गुणग्राही गतस्मयः ॥२१॥

सदाचारप्रियतरः पुण्यश्रवणकीर्तनः ।

सर्वमंगलसद्रूपनानागुणविचेष्टितः ॥२२॥

इत्येतत्परमं स्तोत्रं जनमंगलसंज्ञितम् ।

यः पठेत्तेन पठितं भवेद्वै सर्वमंगलम् ॥२३॥

यः पठेच्छृणुयाद्‌भक्त्या त्रिकालं श्रावयेच्च वा ।

एतत्तस्य तु पापानि नश्येयुः किल सर्वशः ॥२४॥

एतत्संसेवमानानां पुरुषार्थचतुष्टये ।

दुर्लभं नास्ति किमपि हरिकृष्णप्रसादतः ॥२५॥

भूतप्रेतपिशाचानां डाकिनीब्रह्मराक्षसाम् ।

योगिनीनां तथा बालग्रहादीनामुपद्रवः ॥२६॥

अभिचारो रिपुकृतो रोगश्चान्योऽप्युपद्रवः ।

अयुतावर्तनादस्य नश्यत्येव न संशयः ॥२७॥

दशावृत्या प्रतिदिनमस्याभीष्टं सुखं भवेत् ।

गृहिभिस्त्यागिभिश्चापि पठनीयमिदं ततः ॥२८॥

इति श्रीशतानन्दमुनिविरचितं श्रीजनमंगलाख्यं

श्रीहर्यष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥

Download PDF