Sign In

शुक्र कवचम् | Shukra Kavacham | Free PDF Download

शुक्र कवचम् | Shukra Kavacham | Free PDF Download

ध्यानम्
मृणालकुंदेंदुपयोजसुप्रभं
पीतांबरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थविधिं महांतं
ध्यायेत्कविं वांछितमर्थसिद्धये ॥ 1 ॥

अथ शुक्रकवचम्
शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चंदनद्युतिः ॥ 2 ॥

पातु मे नासिकां काव्यो वदनं दैत्यवंदितः ।
वचनं चोशनाः पातु कंठं श्रीकंठभक्तिमान् ॥ 3 ॥

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥ 4 ॥

कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु जंघे ज्ञानवतां वरः ॥ 5 ॥

गुल्फौ गुणनिधिः पातु पातु पादौ वरांबरः ।
सर्वाण्यंगानि मे पातु स्वर्णमालापरिष्कृतः ॥ 6 ॥

फलश्रुतिः
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ 7 ॥

॥ इति श्रीब्रह्मांडपुराणे शुक्रकवचं संपूर्णम् ॥

Download PDF