Sign In

श्री तुळजाभवानी स्तोत्र (जगदंबास्तुती) | Tuljabhavani Stotra | Free PDF Download

श्री तुळजाभवानी स्तोत्र (जगदंबास्तुती) | Tuljabhavani Stotra | Free PDF Download

नमोऽस्तु ते महादेवि शिवे कल्याणि शाम्भवि । प्रसीद वेदविनुते जगदम्ब नमोऽस्तु ते ।।१।।

जगतामादिभूता त्वं जगत्त्वं जगदाश्रया । एकाप्यनेकरूपाऽसि जगदम्ब नमोऽस्तु ते ।।२।।

सृष्टिस्थितिविनाशानां हेतुभूते मुनिस्तुते । प्रसीद देवविनुते जगदम्ब नमोऽस्तु ते ।।३।।

सर्वेश्वरि नमस्तुभ्यं सर्वसौभाग्यदायिनि । सर्वशक्तियुतेऽनन्ते जगदम्ब नमोऽस्तु ते ।।४।।

विविधारिष्टशमनि त्रिविधोत्पातनाशिनि । प्रसीद देवि ललिते जगदम्ब नमोऽस्तु ते ।।५।।

प्रसीद करुणासिन्धो त्वत्तः कारुणिको परा । यतो नास्ति महादेवि जगदम्ब नमोऽस्तु ते ।।६।।

शत्रून्जहि जयं देहि सर्वान्कामांश्च देहि मे । भयं नाशय रोगांश्च जगदम्ब नमोऽस्तु ते ।।७।।

जगदम्ब नमोऽस्तु ते हिते जय शम्भोर्दयिते महामते । कुलदेवि नमोऽस्तु ते सदा हृदि मे तिष्ठ यतोऽसि सर्वदा ।।८।।

तुलजापुरवासिन्या देव्याः स्तोत्रमिदं परम् । यः पठेत्प्रयतो भक्त्या सर्वान्कामान्स आप्नुयात् ।।९।।

इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीतुलजापुरवासिन्या देव्याः स्तोत्रं संपूर्णम् ।।

Download PDF